________________ श्रामण्यम् // 1-3-3 // कर्मविवरं प्राप्य जीवलोकस्य दुःखोत्पादकमनुष्ठानं न कर्त्तव्यम्। आत्मनो बहिरपि पश्य, यत्परेऽपि त्वद्वत् सुखप्रियाः। अतः कृत-कारिता-नुमतिभिहिंसाविरतो भवेत्। मोहावृतबुद्धयो न जानन्त्यतीतमनागतं च। एके तु वदन्ति-अतीतभव एवानागतकाले लभ्यत इति। न तु सर्वज्ञास्तथाऽवधारयन्ति। एतदनुदर्शी भवति विमलीकृताचारो मुनिः। ततश्च क्षपयिष्यत्यसौ कर्म।