________________ ज्ञानादिः। जुगुप्सेत विषयजनितं प्रमोदम्। विरक्तस्स्यात्स्त्रीषु। सम्यग्दर्शनादिदर्शी निर्विण्णो भवेत् पापकर्मभ्यः। नरकादिविपाकं दृष्ट्वा क्रोधादिनिरोधं कुर्यात्। वीरो विरमेत् वधात्, छिन्द्यात् शोकम्, भूयाच्च मोक्षगामी। बाह्याभ्यन्तरग्रन्थं परिज्ञाय विषयाभिष्वङ्गं च ज्ञात्वा दान्ततया चरेत्। न ह्यन्यत्र मनुजभवादेतादृशमुन्मजनमिति तल्लब्ध्वा न हिंसादिभिस्तद् विफलीकुर्यात्।