________________ 8. ! जन्तूनप्रमत्तः परिव्रजेत्। दुःखमारम्भजमिति ज्ञात्वा निरारम्भो भवेत्। मायी प्रमादी च पुनर्गर्भमेति। यस्तु शब्दादिषु माध्यस्थ्यमुपैति, स यतिरेव परमार्थत ऋजुः। तस्यैव तत्त्वतो मरणोद्वेगः। स एव मरणान्मुच्यते। कामप्रयुक्तप्रमादगोचरेऽप्रमत्तोऽयम्। उपरतः पापकर्मभिः। वीरोऽसावात्मगुप्तो विचक्षणश्च। यो विषयोपादानहेतुकहिंसाया निपुणः, स संयमस्य निपुणः। संयमनिपुणश्चोक्तहिंसाज्ञः। नाकर्मणो भवभ्रमणम्, आत्मोपाधेः