________________ कर्मकारणत्वात्। अतः प्रत्युत्प्रेक्ष्य कर्म यतनीयं तदभावे। मिथ्यात्वादियोनिहिंसेति सा त्याज्या। रागद्वेषौ परिज्ञातव्यौ। लोकं विज्ञाय लोकसञ्ज्ञां च वान्त्वा पराक्रमेत मेधावी। असंयमफलम् // 1-3-2 // आर्य! पश्य जन्म बालादिवृद्धावसानां वृद्धिं च। पर्यालोचय यथा त्वत्समानैव सुखेच्छा सर्वेषामपि जीवानाम्। ततश्चातिविद्यस्सन् ज्ञात्वा मोक्षमार्ग समत्वदर्शी पापं न कुर्यात्।