________________ ब्रह्मवान्, योगिशर्मालङ्कृतत्वात्। जानात्यसौ लोकं प्रज्ञानैः। स एव मुनिपदवाच्यः। स एव धर्मवित्, ऋजुश्च। वेत्त्यसौ संसारविषयाभिलाषयो रागद्वेषाभ्यांसम्बन्धम्, ततश्चानर्थरूपमेनं मत्वा छिनत्ति। शीतोष्णपरीषहावतिसहमानो हि निर्ग्रन्थः। नासौ परीषहं पीडाहेतुत्वेन गृह्णाति। जागृतोऽसौ। वैरोपरतश्च। एवं त्वमप्यात्मानं दुःखात्प्रमोक्ष्यसि। अपरथा तु जरामृत्युवशवर्त्तिता मोहो धर्मानभिज्ञता च। दुःखितान् दृष्ट्वा