________________ शीतोष्णीयम् भावनिद्रा // 1-3-1 // अज्ञानिनः सदा सुप्ताः। मुनयः सदा जाग्रति, हिताहितप्राप्तिपरिहारप्रवणत्वात्तेषाम्। अहितायाज्ञानं लोके। लोकाचारं ज्ञात्वा शस्त्रादुपरतो भवेत्। नेष्टेतरेषु शब्दादिषु रागादिकं कुरुते मुनिः। ततश्चासौ आत्मवान्, रक्षितात्मत्वात्, ज्ञानवान्, यथावस्थितपदार्थबोधसम्पन्नत्वात्, वेदवान्, आचाराद्यागमज्ञत्वात्, धर्मवान्, तदभिज्ञत्वात्,