________________ चक्र्यादेर्धर्मः कथ्यते, तथैव तुच्छस्य द्रमकादेः, रागादिमुक्तत्वान्मुनेः। न चानादरेण हन्तारं धर्मः कथनीयः, श्रेयोविरहात्। कथकेन द्रव्यादितः श्रोतृविचारः कर्त्तव्यः। बन्धप्रमोक्षान्वेषिणा साधुना भाव्यम्। कुशलस्तु न बद्धः, क्षीणघातिकर्मत्वात्। नापि मुक्तः भवोपग्राहिकर्मगोचरत्वात्। संयमानुष्ठानमारम्भणीयमनारम्भणीयं त्वनाचीर्णम्। अतो येन प्रकारेण हिंसोत्पद्यते तज्ज्ञात्वा परिहरेत्। त्यजेच्च लोकसञ्ज्ञामपि।