________________ रागेण द्वेषेण वेति द्विधा भवति प्रतिज्ञा। तां सन्त्यज्य संयमसञ्चरे निश्चितं गमनं कार्यम्। वस्त्र-पात्र-कम्बलपादपुञ्छन-वसति-संस्तारकेषु निर्दोषचर्यया परिव्रजेत्। यावन्मात्रेण गृहीतेन गृहिणो न पुनरारम्भः, आत्मनो वा यापनं तावन्मात्रां जानीयात्। लाभे मदं न कुर्यात्। अलाभे न शोकं विदधीत। बह्वपि लब्धं न स्थापयेत्, सन्निधेः प्रतिषिद्धत्वात्। नापि धर्मोपकरणे मूर्छा कुर्यात्। आचार्यसत्कमिदमुपकरणं न ममेत्येवं तन्मूछौँ त्यजेत्, धर्मोपकरणत्यागस्य धर्मत्यागपर्यवसानात्।