________________ जिनोदितोऽयं मार्गः, यदादरेण पापोपलेपपरिहार इति। दुरतिक्रमाः कामाः। क्षीणमायुर्न वृद्धि नीयते। कामाभिलाषी पुरुषः शोकखेद-पीडा-परितापभाजनं भवति। दीर्घदृष्टिस्तु लोकविदर्शी भवति। जानात्यसौ लोकस्याधोभागादिगतं नरकदुःखादिकम्। कर्मानुभावेनानुपरिवर्त्तमानं कामगृद्ध लोकमपि पश्यति। ततो मनुजेषु यो ज्ञानादिको भावसन्धिस्तं विदित्वा विषयकषायान् परिहरन् वीरः। स्तुतोऽसौ सुविहितैः यः कर्मरूपादान्तराद् 28