________________ लोकनिश्रा // 1-2-5 // पुत्राद्यर्थः लोको भोजनारम्भं सन्निधिसञ्चयञ्च कुरुते। तत्र साधुर्वृत्तिमन्वेषयेत्। आर्य आर्यप्रज्ञ आर्यदर्शी साधुः, संयमोद्यमवांश्च। अतोऽसौ कृतकारिताऽनुमतिभिरकल्प्यं परित्यज्य निर्दोषमाहारं गृह्णीयात्। कालबल-क्षेत्रा-ऽवसर-विनय-स्वसमयपरसमय-भावविज्ञः साधुः परिग्रहममकारं परिहरन् कालोचितमनुष्ठानं कुर्यात्। न कामपि कषायोदयजनिताविरत्यात्मिकां प्रतिज्ञां कुर्यात्।