________________ स्त्रीभिः, दुःख-मोह-मृत्यु-नरकतिरश्चहेतुत्वात्तासाम्। धर्मानभिज्ञो मूढः। महामोहः खल्वङ्गनाभिष्वङ्गः, अतोऽत्राप्रमादः कर्त्तव्य इति जिनाज्ञा। अतोऽलं कुशलस्य प्रमादेन। सम्प्रेक्ष्यं भवमोक्षयोः स्वरूपम्, शरीरनश्वरत्वं च। किञ्च न भोगास्तृप्तिहेतव इत्यलमेभिः। महद्भयरूपा हि कामदशा। अत आशाछन्दविवेचको वीरः प्रशंसितश्च। संयमानिर्वेदोऽदानाकोपनं स्तोकानिन्दा प्रतिषिद्धनिवर्तनं चेत्येष मुनिभावः समनुपालनीयः। 251