________________ पश्यकस्योपदेशो नारकादिव्यपदेशश्च नास्ति, विदितवेद्यत्वात्, द्रागेव मोक्षगमनाच्च। बालस्तु रागी कामगृद्धश्चातोऽशमितदुःखत्वेन दुःख्यनुपरिवर्तते दुःखावर्त्तमात्रम्। भोगविरागः // 1-2-4 // धीर! त्यजाऽऽशामिच्छां च। त्वदुःखकारणं हृदयशल्यमेतत्। किञ्चानैकान्तिकानि भोगसाधनानि, कर्मपरिणतिवैचित्र्यात्। नावबुध्यन्ते एतन् मोहप्रावृता जनाः। अत एव प्रव्यथितो लोकः