________________ नास्ति। सर्वे जीवा प्रियायुषः सुखैषिणो दुःखद्वेषिणोऽप्रियवधा जीवितुकामाश्च। ततश्चासंयमजीवनमाश्रित्य द्विपदाद्यभियोगेन क्लेशेन कुरुतेऽर्थसञ्चयायासम्। कथञ्चित्सञ्चितोऽप्यर्थोऽपहियते दायादादिभिः, विनश्यति वाऽनलादिभिः। एवञ्चान्यप्रयोजनकृते बालः क्रूराणि कर्माणि प्रकुर्वाणस्तत्कर्मविपाकापादितेन दुःखेन मूढो विपर्यासमुपैति। नासौ पारं गन्तुं समर्थः, गृहीतश्रुतत्वेऽपि श्रुतोक्तसंयमस्थानास्थितत्वात्।