________________ प्रकारान् दुःखानुभावान्। स कर्मविपाकमसम्बुध्यमानो हतोपहतो भवति। पुनर्जन्म पुनर्मरणमित्येवं संसारोदरे विवर्तमानो दीर्घजीवनार्थं सत्त्वोपघातकारिणी रसायनादिकाः क्रियाः कुर्वाणः, क्षेत्रादिषु च ममत्वं विदधन् तपःप्रभृति चापलपन् अधिकतमविषयोपभोगाभिलाषी तदर्थमत्यर्थं लपन मूढो विपर्यासमुपैति।। ज्ञानादिनिरतास्त्विदमेव क्षेत्रादिकं नाभिलषन्ति। अतो जातिमरणे परिज्ञाय दृढे चारित्र उद्युक्तो भव। मृत्योरनवसरो