________________ निर्मानत्वम् / / 1-2-3 // संसारी जीवः पुनः पुनरुच्चनीचगोत्रेषूत्पन्नः। तुल्यान्येवोभयगोत्रबन्धाध्यवसायस्थानानि। अतो जात्यादीनां मदस्थानानामन्यतमदपि नाभिलषेत्। एवं ज्ञात्वा को गोत्रनिमित्तं कुर्यादहङ्कारम् ? कुत्र वा गृध्येत् ? अतः पण्डितो न हर्षं कुर्यात्। भूतानि प्रत्युपेक्ष्य तेषां सुखाभिलाषं जानीहि। पश्य च लोकस्यान्धबधिरत्वादिविडम्बनाः। यः प्रमादेनानेकरूपा योनी: सन्धत्ते, अनुभवति च नाना