________________ ये जना रत्नत्रयीपारगामिनस्ते मुक्ता भवन्ति। ते हि सन्तोषेण लोभं परिहरन्तो लब्धान् कामान् न सेवन्ते। गुणदोषपर्यालोचनया पर्यालोच्य लोभं नाभिलषन्ति, एत एवानगारव्यपदेशयोग्याः। आत्मबल-ज्ञातिबलाद्यर्थं पापमोक्षार्थमाशंसया वा यद्दण्डसमारम्भणं तन्मेधाविना कृत-कारिता-ऽनुमतिभिस्त्याज्यम्। आर्योदितोऽयं मार्गो यन्न कुशलेन दण्डसमुपादाने संश्लेषः कार्य इति।