________________ मुक्तो भवति। ये तु जडा मोहप्रावृतास्ते सर्वज्ञोपदेशविपर्ययवर्तिनः परीषहोपसगैः स्पृष्टाः संयमानिवर्त्तन्ते। अपरिग्रहा भविष्याम इति चीवरादिग्रहणं प्रतिपद्य लब्धान् कामान् सेवन्ते। स्वैरिण्या मत्या मुनिवेषविडम्बिनस्ते कामोपायारम्भेषु पौनःपुन्येन लगन्ति। ते चात्र विषयाभिष्वङ्गाज्ञानमये भावमोहे पुनः पुनर्निमग्नाः सन्त आरातीयतीरदेश्याद् गृहवाससौख्यादपि भ्रष्टाः, यथोक्तसंयमाभावाच्च परतीरदेश्यान्मुक्तिसुखादपि भ्रष्टाः।