________________ एवं सम्प्रेक्ष्य यथोक्तसंयमानुष्ठानाय सम्यगुत्थित एनमवसरं पर्यालोच्य धीरः सन् एकं मुहूर्तमपि नो प्रमादयेत्। वयो यौवनं वाऽतिक्रामति। असंयमजीवितेऽध्युपपन्ना विषयकषायेषु प्रमाद्यन्ति। ततश्च ते जीवानां हनन-छेदनादिषु प्रवर्त्तन्ते। मन्यन्ते च यथा यदन्येन नानुष्ठितं तदहं करिष्यामीति। किन्त्वापद्गततया क्षीणसर्वस्वं तं तत्स्वजनादयः पोषयन्ति। स वा प्राप्तेष्टलाभस्तान् पोषयेत्। किन्तु नालं कोऽप्यपरस्य त्राणाय शरणाय