________________ विष्टचित्तः सन् स पुनः पुनः पृथिव्यादिजीवोपघाते प्रवर्त्तते। इहैकेषां मानवानामल्पमेवायुर्भवति। ततश्च श्रोत्रादीन्द्रियहानिप्राप्तौ जरामरणाभिक्रान्तं निजवयसं पर्यालोच्य सोऽत्यर्थं मौढ्यमापद्यत इति। निन्दन्ति तं तस्यैव स्वजनाः, सोऽपि तान् निन्दति। कथञ्चिद् भद्रिका अपि ते तस्य त्राणाय शरणाय वा नालम्। नापि स तेषाम्। किञ्च हास्य-क्रीडा-रतिविभूषाभ्योऽयोग्यो भवति वृद्धः।