________________ लोकविजयः स्वजनविरागः।।१-२-१॥ यः शब्दादिकः कामगुणः, स एव संसारस्य मूलरूपाणां कषायाणामाश्रयः। अतस्तदर्थी प्रमत्तः सन् महता परितापेन संसारे तिष्ठेत्। यथा ममैते मातापित्रादय उपकरणादयश्च। एवमर्थं गृद्धो लोकः प्रमत्तस्तिष्ठेत्। नक्तन्दिनं च परितप्यमानः कालाकालसमुत्थायी संयोगार्थी अर्थातिलोभश्चौर्यादिप्रवृत्तोऽसमीक्षितकारी धनोपार्जनकविनि