________________ तेन कर्मणा बध्यन्ते। ते चात्मानं संयमितया वदन्तोऽपि न रमन्ते ज्ञानाद्याचारे। ततश्च ते स्वच्छन्दतया विषयपरिभोगायत्तजीविताः सन्त आरम्भसक्ताः सङ्गं प्रकुर्वन्ति। अतः परिज्ञातकर्मा सम्यक्त्वादिधनसम्पन्नः सर्वावबोधविशेषानुगतेनात्मनाऽकार्योपादानाय न कुर्याद्यत्नम्। तत् परिज्ञाय मेधावी कृत-कारिताऽनुमतिभिः षट्कायसमारम्भं त्यजेत्, अन्यथा भावश्रामण्यानुपपत्तेरिति।