________________ ध्यात्ममपि जानाति। अतो यथात्मानं सर्वथा सुखाभिलाषितया रक्षसि तथा परमपि रक्षेत्येवं तुलामन्वेषयेत्। इह रत्नत्रयीप्रतिपन्ना रागादिमुक्ता वायुजीवोपमर्दैन जीवितुं नाभिलषन्ति। अतः पृथ्वीपरिज्ञावत्तत्समारम्भमपि परिजानीयात्साधुत्वसस्पृह इति। न चैकजीवनिकायविषय आरम्भः शेषजीवनिकायोपमर्दमन्तरेण शक्यते, अत एकस्मिन् जीवनिकाये वधप्रवृत्ताः शेषजीवनिकायवधजनि