________________ घ्नन्ति केचन त्रसजीवान् चर्म-मांसशोणिताद्यर्थम्। ते चापरिज्ञाताऽऽरम्भाः। न चैवं भाव्यं श्रमणभावाभिलाषिणेति। वायुकायः।।१-१-७॥ अवश्यं शारीरमानसोभयदुःखमनिवृत्तवायुकायसमारम्भे मय्यापततीत्येवमातङ्कदर्शी ममैतदहितमिति ज्ञात्वैतन्निवर्तने प्रभुर्भवति। यो ह्यात्मानमधिकृत्य वर्तमानं सुखदुःखादि जानाति, स बहिरपि प्राणिगणं वायुकायादिकं जानाति, तज्जानानश्चा