________________ त्रसकायः // 1-1-6 // सन्ति त्रसजीवाः, तद्यथा-अण्डजाः पोतजा जरायुजा रसजा संस्वेदजा सम्मूर्च्छनजा उद्भिजा उपपातजाश्च। एष संसार उच्यते, स च मन्दस्याविजानतो भवति। एनं त्रसकायं चिन्तयित्वा यथावदुपलभ्य च ज्ञातव्यं यथा प्रत्येकसुखभाजः प्रत्येकदुःखभाजश्च सर्वे जीवाः। समन्ताच्छरीरमन:पीडाकरं महाभयं च दुःखं सर्वेषाम्। अतः पृथ्वीपरिज्ञावत् त्रसकायपरिज्ञाऽपि नेतव्या।