________________ एव। एष चानगार इत्युच्यते, नान्यः, अतिप्रसङ्गादिति। यः शब्दादिको गुणः, स एव संसारः। शब्दादिषु रागादिं कुर्वाणो न जिनाज्ञानुसारी। स च पुनः पुनस्तानास्वादयति। वक्रसमाचारश्चायम्, नरकादिगत्याभिमुख्यप्रवणत्वात्। एवं च प्रमत्तोऽसौ गृहमावसति। अतः पृथ्वीवद्वनस्पतिपरिज्ञाऽपि कर्तव्या। जातिवृद्ध्यादिसाधादस्मच्छरीरवद्वनस्पतिशरीरमपि सजीवत्वेन सिद्धम्। अतः परिज्ञातव्यस्तत्समारम्भो वतिनेति।