________________ श्चाग्निकायदण्डः, तद्दण्डहेतुत्वात्। अतः पृथ्वी-तृण-पत्र-काष्ठ -गोमयकचवरादिनिश्रितजीवरक्षार्थं मक्षिकादिसम्पातिमप्राणिरक्षार्थं च परिज्ञातव्योऽग्निसमारम्भः, इत्थमेव श्रामण्योपपत्तेरिति। शिष्टं पृथ्वीगमेन नेयम्। वनस्पतिकायः // 1-1-5 // वनस्पतिदुःखं नो करिष्ये, न कारयिष्ये, नानुमंस्ये चेति प्रव्रज्यां प्रतिपद्य जीवान् यथावद् ज्ञात्वा संयमं च विदित्वा न कुर्याद् वनस्पत्यारम्भम्। एवमेतदुपरतः परमार्थतो जैनेन्द्रे प्रवचन