________________ न च जलजीवपीडने हिंसैव, अपि तु चौर्यमपि, अदत्तत्वात्तजीवैः स्वशरीराणाम्। अनान्यदपि पृथ्वीसमारम्भपरिज्ञावत् परिज्ञातव्यम्, एवमेवानगारत्वसिद्धेरिति। तेजस्कायः // 1-1-4 // यो हि षट्कायमहाशस्त्रस्याग्निकायस्य विषये निपुणः, स संयमस्य विषये निपुणः। सदा संयतैरप्रमत्तैश्च तीर्थकृदादिभिरिदमग्निस्वरूपं संयमस्वरूपं च दृष्टम्। प्रमत्तो रन्धनादिप्रयोजन