________________ अप्कायः॥१-१-३॥ अशेषसंयमानुष्ठायी रत्नत्रयीप्रतिपन्नोऽनिगूहितबलवीर्यो हि सम्पूर्णोऽनगारः। स च यया श्रद्धया प्रव्रज्यां गृहीतवान्, तामेव श्रद्धामश्रान्तो यावज्जीवमनुपालयेत्, त्यजेच्च शङ्काम्। यत उत्तमपुरुषप्रहतोऽयं मार्गः। जिनाज्ञयाऽप्कायलोकं सम्यगवगम्य संयममनुपालयेत्। न चाप्कायजीवत्वमपलपेत्, नाप्यात्मानमपलपेत्, एकापलापस्यापरापलापहेतुत्वात्, अनेकदोषानुषङ्गाच्च।