________________ श्रुत्वा जानाति, यथा पृथ्वीशस्त्रसमारम्भ एवाष्टप्रकारकर्मबन्धः। एष एव मोहः तद्धेतुत्वात्। एष एव मारः, मृत्युयोनित्वात्। एष एव नरकश्च, तत्कारणत्वयोगात्। तथाप्याहाराद्यर्थमत्र गृद्धो लोकः। न च कथमेतेषां वेदनेत्यारेका कर्त्तव्या, यथा पञ्चेन्द्रियप्राणिनामन्धानां वा पादादिभेदने क्रियमाणे तेषां वेदनोपजायते, तथैव पृथ्वीजीवानामप्यव्यक्ता भवति वेदना। अतः परिज्ञातव्या कृत-कारिता-नुमतिभिः पृथ्वीपीडा, अन्यथा मौनानुपपत्तेरिति।