________________ मोद्यानवनखण्डदेवकुलादीनि, अट्टालकादीनि, त्रिकचतुष्कादीनि, अङ्गारदाहादीनि, नद्याद्यायतनानि, खातनूतनमृत्तिकादीनि, शाकादिवनस्पतिविशेषाः शणादिवनानि वा पत्राद्युपेतानि जानीयात्, तत्र नोच्चारादि व्युत्सृजेत्। मात्रकमादायापक्रम्यैकान्तमनापातेऽसंलोके प्राणादिरहित आरामे प्रतिश्रये वा संयत एवोच्चारादि व्युत्सृजेत्। ततस्तन्मात्रकमादायैकान्तमपक्रम्यानाबाधे प्रासुके दग्धस्थण्डिलादावचित्ते संयत एवोच्चारादि व्युत्सृजेत्।