________________ शब्दः (चतुर्थी सप्तिका) // 2-11 // मृदङ्गादेर्वीणाप्रभृतेस्तालादेः शङ्खप्रभृतेश्च शब्दान् श्रुत्वा न तच्छ्रवणाय गन्तुमिच्छेत्। एवं वप्रादि-कच्छादिग्रामादि-आरामादि-अट्टादि-त्रिकादिमहिषीसत्कस्थानादि-महिषयुद्धादियूथिकस्थानादि-शब्दान् श्रुत्वा तत्र गन्तुं नेच्छेत्। तथाऽऽख्यायिकादिस्थानानि कलहादीन् विभूषितकन्यां बहशकटादीनि स्त्र्यादीनि वा श्रुत्वा न तत्र गन्तुमिच्छेत्।