________________ यमेव संस्तारकं ग्रहीष्यामि। अपरथोत्कटुको निषण्णो वा रजनी गमिष्यामि। (7) अनन्तरवत्, नवरं यथासंस्तृतमेव शिलादिकं ग्रहीष्यामि, नेतरत्। सर्वेऽप्येते जिनाज्ञाश्रिताः, अतो नापरं हीलयेत्। स्थविरैर्भगवद्भिः पञ्चविधा अवग्रहाः प्रज्ञप्ताः(१) देवेन्द्रावग्रहः (2) राजावग्रहः (3) गृहपतेरवग्रहः (4) सागारिकावग्रहः (5) साधर्मिकावग्रहः।