________________ स्थानम् (प्रथमा सप्तिका) // 2-8 // भिक्षुर्वा भिक्षुणी वाऽभिकाङ्केत स्थानं स्थातुम्। स ग्रामादौ प्रविश्य यदण्डादियुतं स्थानं तन्न गृहणीयात्। एवं शय्यागमेन नेयम्। अत्र प्रतिमाचतुष्कम्(१) अचित्तं स्थानमुपस्रक्ष्याम्यहम्। तत्राचित्तं कुड्यादिकमवलम्बयिष्ये कायेन। करिष्यामि हस्तपादाद्याकुञ्चनादिरूपाणि विपरिकर्माणि, तथा तथैव स्तोकपादविहरणरूपं सविचारं स्थानं स्थास्यामि। (2) सैव सविचारस्थानरहिता।