________________ आम्रवणे गृहीतावग्रहो भिक्षुर्वर्जयेदण्डादियुततयाऽप्रासुकमाम्रादिकम्। एवमिक्षुवणादिकं प्रतीत्यापि ज्ञेयम्। अथावग्रहप्रतिमासप्तकम्- (1) अनुचिन्त्यैवम्भूतः प्रतिश्रयो मया ग्राह्यः, नान्यथाभूतः। (2) अहमन्यकृतेऽवग्रह याचिष्यामि, अन्यावग्रहे च वत्स्यामि। (3) अन्यार्थमवग्रहं याचिष्ये, नान्यावगृहीते स्थास्यामि। (4) नान्यकृते याचिष्ये, वत्स्यामि त्वन्यावगृहीते (5) याचिष्ये मत्कृते, नान्यकृते। (6) यदीयमवग्रहमवग्रहीष्यामि, तदी