________________ वर्षादेरिति पिण्डैषणावद्विज्ञेयम्। यदि कश्चिदन्यमुनिः स्ववस्त्रं याचित्वैकाक्यन्यत्र व्रजेत्, एकादिदिनानन्तरं चागत्य प्रत्यर्पयेत्तदा तन्न ग्राह्यम्, उपहतत्वात्। प्रत्यर्पितं तु खण्डशः कृत्वा परिष्ठापयेत्, न तु परिभुञ्जीत। न च वस्त्रलिप्सयोपेत्यैवं कस्यचिद्वस्त्रस्योपघातः कार्यः, मातृस्थानस्पर्शप्रसक्तेः। न वस्त्रेषु वर्णपरावर्त परस्परदानं वा कुर्यात्। वस्त्रामोषकप्रसङ्गकर्तव्यता चर्यावद्विज्ञेया।