________________ कृतं वस्त्रं यथा न कल्पते तथा पिण्डैषणावदत्रापिज्ञेयम्। एवं क्रीतादिकं कृतरङ्गादिसंस्कारं प्रत्यपि ज्ञेयम्। पुरुषान्तरकृतं तु तत् प्रतिगृह्णीयात्। न महााणि चर्मनिष्पन्नानि वा वस्त्राणि प्रतिगृह्णीयात्। प्रतिमाचतुष्कमप्यत्रैवं ज्ञेयम्-(१) उद्दिष्टा (2) प्रेक्षिता (3) परिभुक्तप्राया (4) उज्झितधार्मिका। श्वस्तनदिने पञ्च-दशदिनानन्तरं मासानन्तरं वा वस्त्रं दास्याम इति वदन्तं ब्रूयात्न कल्पते मे प्रतिश्रोतुमेतां प्रतिज्ञाम्, यदीच्छसि दातुम्, इदानीमेव यच्छेति।