________________ वस्त्रैषणा // 2-5-1 // भिक्षुर्वा भिक्षुणी वा वस्त्रमेषितुमभिकाङ्क्षत, स ऊर्णादिनिष्पन्नं जानीयाद्वस्त्रम्। युवा बलवान् नीरोगी स्थिरसंहननो भिक्षुरेकं वस्त्रं धारयेत्, न द्वितीयम्। निर्ग्रन्थी सङ्घाटिचतुष्कं धारयेत्। एकां द्विहस्तविस्ताराम्, द्वे त्रिहस्तविस्तारे, एकां च चतुर्हस्तविस्ताराम्। तदलाभ एकमेकेन सार्धं सीव्येत्। नार्धयोजनात्परतो वस्त्रमेषितुं गन्तव्यम्। एकानेकसाधर्मिकादीनुद्दिश्य *128