________________ विशोधयेद्वा। न तु तदासक्तिं कुर्यात्। तीरं प्राप्तस्तत्र तिष्ठेत्। नोदकाकायप्रमार्जनादिकं कुर्यात्। न परैरुल्लापं कुर्वन् ग्रामानुग्रामं व्रजेत्। जङ्घासन्तार्ये तु जले प्रागेव कायं प्रमृज्यैकं पादं जले कृत्वैकं पादं स्थले कृत्वा संयत एव व्रजेत्। न हस्तादिस्पर्श कुर्यात्। नापि साताद्यभिलाषेण व्रजेत्। तीरप्राप्तश्चोक्तविधिमनुपालयेत्। विगतोदकं कायं दृष्ट्वा संयत एव व्रजेत्। न कर्दमादिलिप्तपादप्रमार्जनाय