________________ शिरोवेष्टनं वा कुर्यात्। स्वप्रक्षेपतः प्रागेव वदेत्-आयुष्मन् ! मा मामुदके प्रक्षिपत, अहं स्वयमेव नाव उदकेऽवगाहिष्ये। यद्येवं वदन्तं स सहसा प्रक्षिपेत्, तदा न सुमनाः स्यात्, नापि दुर्मनाः स्यात्, नोच्चावचं मनः कुर्यात्, न च तेषां वधाय समुत्तिष्ठेत्। अपि त्वौत्सुक्यादिरहितः समाहितस्सन् संयत एवोदके प्लवेत। प्लवमानो न हस्तादिस्पर्श विदध्यात्। नोन्मजननिमज्जने कुर्यात्, अपरथा चक्षुरादावुदकप्रवेशप्रसक्तेः। प्लवमानः श्रमं गच्छन् क्षिप्रमेव त्यजेदुपधिं