________________ नौसन्तार्योदकोल्लङ्घने वर्जयेत् क्रीतादिदोषदुष्टां श्रमणमुद्दिश्यकृतोत्सिञ्चनादिकां च नावम्। निर्दोषां तिरीश्चनसम्पातिमां विज्ञाय नावमनुज्ञाप्य गृहस्थं गत्वैकान्ते प्रत्युपेक्ष्य भाण्डकं कृत्वा तदेकतः प्रमृज्य कायं प्रत्याचक्षीत साकारं भक्तम्। तत एकं पादं जले कृत्वा, एकं पादं स्थले कृत्वा यतनयाऽऽरोहयेन्नावम्। न पुरतः पृष्ठतो मध्यतो वा नावमारोहयेत् बाहूर्वीकृत्याङ्गल्योद्दिश्यावनम्योन्नम्य वा पश्येत्। न च नौगतो भिक्षु वुत्क