________________ भिक्षुर्युगमानं प्रेक्षमाणस्त्रसादिप्राणिनो दृष्ट्वा पादमुद्धृत्याग्रतलेन गच्छेत्। पादं वितिरश्चीनं कृत्वा वा गच्छेत्। सत्यन्यमार्गे तु तेनैव गच्छेत्, न ऋजुना। न चौरादिस्थानमध्यतो गन्तव्यम्। अन्यथा मुनौ स्तेनशङ्का तत्सहायशङ्का वाऽज्ञानां स्यात्। ततोऽप्याक्रोशादिप्रसङ्गः। नाराजकतादियुतेभ्यो देशेभ्यो गन्तव्यम्, उक्तदोषानुषङ्गात्। अतोऽन्यमार्गे सति तेनैव गन्तव्यम्। नानेकदिनगमनीयमटवीमागं प्रपद्येत, वृष्ट्यादिभावे विराधनाप्रसङ्गात्। 114