________________ ईर्या // 2-3-1 // अभ्युपगते वर्षावासे बहुजीवविराधनासम्भवात् सकष्टत्वाच्च गमनस्य न ग्रामानुग्रामं गच्छेदपि तु वर्षावासमुपलीयेत। यत्र ग्रामादौ स्थण्डिलादियोग्यभूमि-निर्दोषाशनादीनामभावः, यत्र च शाक्यादिश्रमणसङ्कीर्णता, दुष्करं च गमनागमनम्, तत्र नोपलीयेत वर्षावासम्। व्यतिक्रान्तेऽपि वर्षावासे यदि मार्गा बहप्राणास्तदा न गन्तव्यम्। ग्रामानुग्रामं गच्छन्