________________ OM मुनिः पूर्वमेव प्रत्युपेक्षेतोच्चारप्रसवणभूमिम्, अन्यथा विकाले पतनादिप्रसक्तेः। आचार्यादिस्वीकृतां भूमि मुक्त्वा संस्तरेच्छय्यासंस्तारकम्। संस्तीर्य च कायं प्रमृज्य तदुपर्यारोहणं कार्यम्। न शयानेनान्यहस्तादिस्पर्शः कर्तव्यः। उच्छ्वासादिकं कुर्वता पूर्वमेव हस्तेन मुखादिभागः परिपिधेयः। समविषमादिकायां शय्यायां समचित्तोऽधिवसेत्। न किञ्चिदपि ग्लायेत्।