________________ ) ستم (3) प्रतिश्रयस्थं संस्तारकं व्यापारयेत्, तदलाभे सर्वरात्रमुत्कटुको वा निषण्णो वाऽऽसीत। (4) पृथिवीशिलां काष्ठशिलां वेति यथासंस्तृतमेव याचेत संस्तारकम्, तदलाभे सर्वरात्रमुत्कटुको वा निषण्णो वाऽऽसीत। एतदन्यतरां प्रतिमा प्रतिपद्यमानो नान्यप्रतिमास्थं हीलयेत्, जिनाज्ञाराधकत्वात्सर्वेषाम्। नाण्डादियुतः संस्तारकः प्रत्यर्पणीयः, तद्रहितस्तु प्रत्युपेक्ष्य प्रमृज्यातापय्य विधूय च यतनापूर्वं प्रत्यर्पणीयः।