________________ आगन्त्रागारादिषु प्रतिश्रयस्वरूपं तत्स्वामिस्वरूपं च विचार्य तं याचेत। ततोऽनुज्ञाप्य वस्तव्यम्। वाच्यं च यथा यावन्तः साधर्मिकाः समागमिष्यन्ति तावतां कृते प्रतिश्रयं ग्रहीष्यामः, ततः परं विहरिष्यामः। न तु साधुपरिमाणं कथनीयम्, समुद्रस्थानीयत्वात्सूरीणाम्। ज्ञातव्ये शय्यातरनामगोत्रे, त्याज्यं च तद्गृहसत्कमशनादिकम्। परिहरेत् साग्न्युदकं प्रतिश्रयम्। यत्र गृहिकुलमध्यतो निर्गमपन्थाः, यत्र गृहिप्रभृतेरन्योऽन्याक्रोशः, मिथोऽभ्य