________________ षट्कायमहासमारम्भनिष्पन्नः छादनलेपनादिसंस्कृताः शीतोदकाग्निकायारम्भकृताः शालादिका महासावद्यक्रियाः। श्रमणाचारानुरक्तैरात्मार्थं षट्कायमहारम्भपूर्वकं कृताः शालादिका अल्पसावधक्रियाः, निरवद्येत्यर्थः। // 2-2-3 // अधःकर्मादिदोषदुष्टां वसतिं यदि श्राद्धाः छलनां कृत्वा ददन्ति, तदा सद्भावं प्रज्ञाप्य तत्प्रतिषेधः कार्यः। क्षुद्रद्वारिकादियुते प्रतिश्रये विकाले पुरो हस्तं प्रसारयता यतनापूर्वकं गन्तव्यम्।