________________ यारूपदोषः, अकल्प्येयं वसतिः। गृहिभिः स्वार्थकृतलोहकारशालादिकं प्रतिश्रयतया दत्त्वा पुनः स्वार्थमन्यगृहाद्यारम्भः क्रियते, तदा तत्र वसतां वर्ण्यक्रियादोषः, अकल्प्येयं वसतिः। भिक्षुसमाचारानुरागिभिर्बहुश्रमणादिकमुद्दिश्य कृतासुशालादिकासु वसतां महावय॑क्रियारूपो दोषः, अकल्प्येयं वसतिर्विशोधिकोटिश्च। पञ्चविधश्रमणाद्यर्थमेव कल्पिता सावद्यक्रिया वसतिः, अकल्प्या विशोधिकोटिश्च। साधर्मिकं साधुमुद्दिश्य