________________ यत्र साण्डोदकादिकास्तृणपूजादयः, तं प्रतिश्रयं परिहरेत्। येष्वागन्त्रागारादिष्वभीक्ष्णं साधर्मिकाणामवपातस्ते त्याज्याः। मासकल्पादि कृत्वा भूयस्तत्रैव संवसतां कालातिक्रान्तक्रियारूपदोषः। द्वित्रिगुणादिकमन्यत्रानतिवाह्य तत्रैव भूयः संवसतामुपस्थानक्रियारूपदोषः। बहुश्रमणादिकानुद्दिश्य कृतेषु लोहकारशालादिकासु चरकादिभिः प्राग् व्यापारितासु संवसतामभिक्रान्तक्रियारूपोऽल्पदोषः। चरकादिभिरव्यापृतासु तु संवसतामनभिक्रान्तक्रि