________________ // 2-2-2 // शुचिसमाचारा गृहिणो भिक्षुगन्धमसहमाना भोजनादिक्रमव्यत्यासादिकं कुर्युः, अधिकाशनाद्युपस्कारश्च ते भिक्ष्वर्थं कुर्युः, काष्ठक्रयादिकं तत्प्रज्वालनादिकं च ते भिक्ष्वर्थं कुर्युः, मुनेरपि तत्काङ्क्षादिदोषाः, अतस्त्याज्यः सागारिकः प्रतिश्रयः। किञ्च न कल्पते दृष्टचौरस्यापि मुनेस्तदागमनादिकं गृहिणो ज्ञापयितुम्। अपि चाभणने मुनावेव स्तेनशङ्का गृहिण इति न स्थेयं सागरिकप्रतिश्रये।