________________ दिदोषापत्तेः। स्त्रीपशुभक्तपानयुते न वसेत्, व्याध्युदयेन संयमात्मविराधनाप्रसक्तेः। सागारिके प्रतिश्रये गृहस्थानामाक्रोशादिकमग्निप्रज्वालनादिकमलङ्कारानलङ्कृतयुवत्यादिकं च दृष्ट्वा मन उच्चावचं सावधचिन्तनप्रवृत्तं च स्यात्, अतो वर्जयेत् सागारिकं प्रतिश्रयम्। अपि च तत्र गृहिणः पत्न्यादयस्तेजस्विपुत्रप्राप्त्यर्थमावर्त्तयेत् साधुं मैथुनार्थम्, अतस्त्यजेत्सागारिकं प्रतिश्रयम्।